माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
भूतं न जायते किञ्चिदभूतं नैव जायते ।
विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४ ॥
तैरेवं विरुद्धवदनेन अन्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवतीति, उच्यते — भूतं विद्यमानं वस्तु न जायते किञ्चिद्विद्यमानत्वादेव आत्मवत् इत्येवं वदन् असद्वादी साङ्ख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतम् अविद्यमानम् अविद्यमानत्वान्नैव जायते शशविषाणवत् इत्येवं वदन्साङ्ख्योऽपि असद्वादिपक्षमसज्जन्म प्रतिषेधति । विवदन्तः विरुद्धं वदन्तः अद्वयाः अद्वैतिनो ह्येते अन्योन्यस्य पक्षौ सदसतोर्जन्मनी प्रतिषेधन्तः अजातिम् अनुत्पत्तिमर्थात्ख्यापयन्ति प्रकाशयन्ति ते ॥

पक्षद्वयनिषेधमुखेन सिद्धमर्थं कथयति –

भूतमित्यादिना ।

श्लोकाक्षरव्याख्यानार्थमाकाङ्क्षां निक्षिपति –

तैरिति ।

तत्राऽऽद्यं पादमवतार्य व्याकरोति –

उच्यत इति ।

द्वितीयपादं विभजते –

तथेति ।

द्वितीयार्धं विभजते –

विवदन्त इत्यादिना ।

सदसदतिरिक्तवस्त्वभावाद् वस्तुत उत्पत्तेरनुपपत्तिरित्याह –

अर्थादिति ॥४॥