माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
ख्याप्यमानामजातिं तैरनुमोदामहे वयम् ।
विवदामो न तैः सार्धमविवादं निबोधत ॥ ५ ॥
तैरेवं ख्यप्यमानामजातिम् एवमस्तु इति अनुमोदामहे केवलम् , न तैः सार्धं विवदामः पक्षप्रतिपक्षपरिग्रहेण ; यथा ते अन्योन्यमित्यभिप्रायः । अतः तम् अविवादं विवादरहितं परमार्थदर्शनमनुज्ञातमस्माभिः निबोधत हे शिष्याः ॥

तर्हि प्रतिवादिभिरुक्तत्वादजातिरपि भवता प्रत्याख्येयेत्याशङ्क्याऽऽह –

ख्याप्यमानामिति ।

प्रतिवादिभिः सह विवादाभावे फलितमाह –

अविवादमिति ।

अक्षराणि व्याचष्टे –

तैरित्यादिना ।

अद्वैतवादिनो द्वैतवादिभिर्विवादाभावे वैधर्म्यदृष्टान्तमाह –

यथा त इति ।

चतुर्थपादार्थमाह –

अत इति ॥५॥