माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सांसिद्धिकी स्वाभाविकी सहजा अकृता च या ।
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥
यस्माल्लौकिक्यपि प्रकृतिर्न विपर्येति, कासावित्याह — सम्यक्सिद्धिः संसिद्धिः, तत्र भवा सांसिद्धिकी ; यथा योगिनां सिद्धानामणिमाद्यैश्वर्यप्राप्तिः प्रकृतिः, सा भूतभविष्यत्कालयोरपि योगिनां न विपर्येति । तथैव सा । स्वाभाविकी द्रव्यस्वभावत एव सिद्धा, यथा अग्न्यादीनामुष्णप्रकाशादिलक्षणा । सापि न कालान्तरे व्यभिचरति देशान्तरे वा, तथा सहजा आत्मना सहैव जाता, यथा पक्ष्यादीनामाकाशगमनादिलक्षणा । अन्यापि या काचित् अकृता केनचिन्न कृता, यथा अपां निम्नदेशगमनादिलक्षणा । अन्यापि या काचित्स्वभावं न जहाति, सा सर्वा प्रकृतिरिति विज्ञेया लोके । मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति ; किमुत अजस्वभावेषु परमार्थवस्तुषु ? अमृतत्वलक्षणा प्रकृतिर्नान्यथा भवेदित्यभिप्रायः ॥

प्रकृतेरन्यथाभावो न कथञ्चिदित्युक्तं तत्र प्रकृतिशब्दार्थं कथयति –

सांसिद्धिकीति ।

श्लोकाक्षराणि व्याकुर्वन् प्रकृतेरन्यथात्वाभावे हेतुमाह –

यस्मादिति ।

तस्मादजाऽमृतस्वभावा प्रकृतिर्न विपर्येतीति किमु वक्तव्यमिति योजना। कैमुतिकन्यायद्योतनार्थोऽपिशब्दः।

विवक्षितं हेतुं स्फुटयितुं प्रश्नपूर्वकं विभजते –

काऽसावित्यादिना ।

साङ्गयोगमनुष्ठाय परिसमापनं संसिद्धिः। सिद्धानामणिमाद्यैश्वर्यप्राप्तौ सामग्रीसम्पन्नानाम्। या काचित् स्वभावं न जहाति घटस्य घटत्वं पटस्य पटत्वमित्यादिकेति शेषः।

प्रासङ्गिकं प्रकृतिशब्दार्थमुक्त्वा प्रकृतेरन्यथात्वाभावे प्रागुक्ते स्वसिद्धान्ते यत्फलति तदिदानीं किंपुनर्न्यायेन कथयति –

मिथ्येति ॥९॥