प्रकरणचतुष्टयविशिष्टस्य शास्त्रस्याऽऽदाविवान्तेऽपि परदेवतातत्त्वमनुस्मरंस्तन्नमस्काररूपं मङ्गलाचरणं सम्पादयति –
दुर्दर्शमिति ।
दुर्विज्ञेयत्वे प्रत्यक्षादिप्रमाणानधिगम्यत्वं हेतुं विवक्षित्वा विशिनष्टि –
अतिगम्भीरमिति ।
प्रत्यक्षादिभिरनवगाह्यत्वे कूटस्थत्वं निर्विशेषत्वं सर्वसम्बन्धविधुरत्वं चेति हेतुत्रयमभिप्रेत्याऽऽह –
अजमित्यादिना ।
विशेषणत्रयं तर्हि कुतश्चिदनवगतं तन्नास्त्येवेति निश्चेतुं युक्तम्, प्रमाणाधीनत्वात् प्रमेयसिद्धेरित्याशङ्क्योपनिषद्भिरतद्धर्माध्यासापाकरणद्वारेणावगम्यमानत्वान्मैवमित्याह –
पदमिति ।
तत्र तर्हि सकलविभागविकले कुतो नमस्कारक्रिया स्वीक्रियामर्हतीत्याशङ्क्याऽऽह –
अनानात्वमिति ।
यद्यपि वस्तुतस्तस्मिन्नानात्वं नावकल्पते तथापि यथासामर्थ्यं मायाबलमवलम्ब्य काल्पिनिकं नानात्वमनुसृत्य नमस्कारक्रिया प्रचयादिप्रयोजनवती प्रामाणिकैरभिप्रेतेत्यर्थः।
श्लोकस्य तात्पर्यमाह –
शास्त्रेति ।
यदि परमार्थतत्त्वं शास्त्रस्याऽऽदाविवान्तेऽपि नमस्क्रियते तदा तस्याऽऽद्यन्तमध्येष्वनुसन्धेयतया स्तुतिः सिध्यति । तेन तदर्थमादाविवावसानेऽपि प्रह्वीभावस्तद्विषयश्लोकेनोपदिश्यते। तथा च प्रतिपाद्यस्य ब्रह्मणो महामहिमत्वं समधिगतमित्यर्थः।
दुर्दर्शत्वमुक्तं व्यनक्ति –
अस्तीति ।
सर्वेषामेव यथोक्ते परमार्थतत्त्वे प्रवेशानुपपत्तिमाशङ्क्य सम्प्रदायरहितानां तथात्वेऽपि तद्वतां मैवमित्याह –
अकृतेति ।
कौटस्थ्यादिसिद्ध्यर्थं व्याख्यातमेव पदत्रयमनुवदति –
अजमिति ।
उक्तं वेदान्तैकगम्यं तत्त्वं द्वैताभावोपलक्षितमित्याह –
ईदृगिति ।
यथोक्तं ब्रह्म ज्ञात्वा ज्ञानसामर्थ्याद् ब्रह्मीभूतश्चेदाचार्यस्तर्हि कथं तस्मै नमस्कर्तुं प्रवर्तते।
न हि परिपूर्णं वस्तु वस्तुतो व्यवहारगोचरतामाचरतीत्याशङ्क्याऽऽह –
अव्यवहार्यमिति ।
परमार्थतो व्यवहारागोचरत्वेऽपि परमार्थतत्त्वस्य मायाशक्तिमनुसृत्य व्यवहारगोचरतां परिकल्प्य नमस्कारक्रिया तस्मिन् प्रयोजनवशादाश्रितेत्यर्थः॥१००॥