माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः ।
जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥
किंविषया पुनः सा प्रकृतिः, यस्या अन्यथाभावो वादिभिः कल्प्यते ? कल्पनायां वा को दोष इत्याह जरामरणनिर्मुक्ताः जरामरणादिसर्वविक्रियावर्जिता इत्यर्थः । के ? सर्वे धर्माः सर्वे आत्मान इत्येतत् । स्वभावतः प्रकृतित एव । अत एवंस्वभावाः सन्तो धर्मा जरामरणमिच्छन्त इवेच्छन्तः रज्ज्वामिव सर्पमात्मनि कल्पयन्तः च्यवन्ते, स्वभावतश्चलन्तीत्यर्थः । तन्मनीषया जरामरणचिन्तया तद्भावभावितत्वदोषेणेत्यर्थः ॥

प्रासङ्गिकीमेव जीवानां प्रकृतिं दर्शयितुं प्रक्रमते –

जरेति ।

आत्मनो हि सर्वविक्रियारहिताः स्वभावतो भवन्तीत्यर्थः।

तेषामुक्तप्रकृतेरन्यथात्वे का क्षतिरित्याशङ्क्याऽऽह –

जरामरणमिति ।

सर्वविक्रियाशून्ये स्वात्मनि विक्रियाकल्पनायां तद्वासनया स्वभावहानिः स्यादित्यर्थः।

श्लोकाक्षराणि व्याकर्तुमाकाङ्क्षां दर्शयति –

किंविषयेति ।

आश्रयविषयो विषयशब्दः।

अप्रकृतं प्रकृतेराश्रयनिरूपणमित्याशङ्क्याऽऽह –

यस्या इति ।

प्रश्नान्तरं प्रकरोति –

कल्पनायामिति ।

तत्र पूर्वार्धमुत्तरत्वेन व्याकरोति –

आहेत्यादिना ।

उत्तरार्धं विभजते –

एवंस्वभावा इति ॥१०॥