माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
कारणाद्यद्यनन्यत्वमतः कार्यमजं तव ।
जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२ ॥
उक्तस्यैवार्थस्य स्पष्टीकरणार्थमाह — कारणात् अजात् कार्यस्य यदि अनन्यत्वमिष्टं त्वया, ततः कार्यमप्यजमिति प्राप्तम् । इदं चान्यद्विप्रतिषिद्धं कार्यमजं चेति तव । किञ्चान्यत् , कार्यकारणयोरनन्यत्वे जायमानाद्धि वै कार्यात् कारणम् अनन्यन्नित्यं ध्रुवं च ते कथं भवेत् ? न हि कुक्कुट्या एकदेशः पच्यते, एकदेशः प्रसवाय कल्प्यते ॥

किं च कार्यकारणयोरभेदे किं कारणाभिन्नं कार्यम्? किं वा कार्यभिन्नं कारणमिति विकल्प्याऽऽद्यमनुवदति –

कारणादिति ।

अतोऽस्मिन्पक्षे कार्यमजं स्यात्, तथाविधकारणाभिन्नत्वादिति दूषयति –

अत इति ।

द्वितीयमनुद्रवति –

यदीति ।

जायमानात्कार्यात् कारणमभिन्नं यदीति योजना।

न तर्हि कारणं ध्रुवं भवितुमर्हति कार्याभिन्नत्वात् तस्य चाध्रुवत्वादिति दूषयति –

कारणमिति ।

श्लोकस्य तात्पर्यमाह –

उक्तस्येति ।

कार्यकारणयोरभेदवादे विप्रतिषेधो दर्शितः। तस्यैव दृढीकरणार्थमयं श्लोक इत्यर्थः।

पुर्वार्धाक्षरोत्थमर्थमाह –

कारणादिति ।

प्राप्तेरनिष्टपर्यवसायित्वमाह –

इदं चेति ।

प्रधानस्याजत्वं जायमानत्वं च विप्रतिषिद्धमित्युक्तम्।

अन्यदित्युक्तमेव व्यनक्ति –

कार्यमिति ।

अभेदेऽपि मायावादे नैष दोषः, कारणस्य कार्यादनन्यत्वानभ्युपगमात्, कार्यस्यैव कारणमात्रत्वाङ्गीकारादिति मत्वाऽऽह –

तवेति ।

द्वितीयार्धं विभजते –

किं चान्यदिति ।

अभेदवादेऽपि कार्यस्यानित्यत्वं कारणस्य नित्यत्वमिति व्यवस्था किमिति न भवतीत्याशङ्क्याऽऽह –

न हीति ॥१२॥