किं च यस्य प्रधानवादिनो मते प्रधानादजादभिन्नं कार्यं जायते महादादीत्यभ्युपगम्यते तस्य पक्षे तस्मिन्नर्थे दृष्टान्तो वक्तव्यः, तदवष्टम्भेनैव तेनार्थव्यवस्थापनात्। न चात्रोभयसम्प्रतिपन्नो दृष्टान्तो दृष्टोऽस्तीत्याह –
अजादिति ।
यद्यजान्नित्याद् वस्तुनो जायमानमभ्युपगन्तुं न शक्यते तर्हि जातादेव जायमानमभ्युपगम्यतामित्याशङ्क्याऽऽह –
जाताच्चेति ।
साङ्ख्यसमये दोषान्तरप्रदर्शनपरत्वं श्लोकस्य प्रतिजानीते –
किं चान्यदिति ।
तत्र पूर्वार्धाक्षराणि योजयति –
अजादिति ।
दृष्टान्ताभावेऽपि प्रमाणान्तरादर्थप्रतिपत्तिर्भविष्यतीत्याशङ्क्याऽऽह –
दृष्टान्तेति ।
परस्य खल्वनुमानाधीनमर्थपरिज्ञानम्। न च दृष्टान्ताभावेऽनुमानमवकल्पते। तस्मान्न साङ्ख्यसमयः सम्भवतीत्यर्थः।
द्वितीयार्धं व्याचष्टे –
यदा पुनरित्यादिना ॥१३॥