माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५ ॥
कथं तैर्विरुद्धमभ्युपगम्यत इति, उच्यते — हेतुजन्यादेव फलात् हेतोर्जन्माभ्युपगच्छतां तेषामीदृशो विरोध उक्तो भवति, यथा पुत्राज्जन्म पितुः ॥

हेतुफलयोरन्योन्यमादिमत्त्वं ब्रुवता तदात्मकस्य संसारस्यानादित्वं विप्रतिषिद्धमित्युपपादितम्। सम्प्रति कार्यकारणभावोऽपि तयोर्न सम्भवतीत्याह –

हेतोरित्यादिना ।

हेतुफलयोरन्योन्यं कारणत्वमभ्युपगच्छद्भिरभ्युपगम्यते विरुद्धमित्येतत् प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

ईदृशत्वमेव विशदयति –

यथेति ॥१५॥