माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सम्भवे हेतुफलयोरेषितव्यः क्रमस्त्वया ।
युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् ॥ १६ ॥
यथोक्तो विरोधो न युक्तोऽभ्युपगन्तुमिति चेन्मन्यसे, सम्भवे उत्पत्तौ हेतुफलयोः क्रमः एषितव्यः अन्वेष्टव्यः त्वया — हेतुः पूर्वं पश्चात्फलं चेति । इतश्च युगपत्सम्भवे यस्माद्धेतुफलयोः कार्यकारणत्वेन असम्बन्धः, यथा युगपत्सम्भवतोः सव्येतरगोविषाणयोः ॥

प्रतीतितो हेतुफलयोरुत्पत्तेरुपगन्तव्यत्वान्न युक्तं तन्निराकरणमित्याशङ्क्याऽऽह –

सम्भव इति ।

तयोरुदये प्रातीतिके नियतपूर्वभावी हेतुर्नियतोत्तरभावि फलमित्यभ्युपगमे हेतुमाह –

युगपदिति ।

यथोक्तो विरोधो हेतुफलभावस्यासम्भवः, स न युक्तोऽभ्युपगन्तुं प्रतीतिविरोधादिति व्यावर्त्यां शङ्कामनुवदति –

यथेति ।

तत्रोत्तरत्वेन श्लोकाक्षराणि योजयति –

सम्भव इति ।

प्रतीत्या क्रमस्वीकारवदुपपत्तेश्चेत्याह –

इतश्चेति ।

तामेवोपपत्तिं स्फोरयति –

युगपदिति ।

ययोर्युगपत्सम्भवस्तयोर्न कार्यकारणत्वं यथा विषाणयोरिति व्याप्तेर्व्यक्तत्वात् क्रमस्याऽऽवश्यकतेत्यर्थः॥१६॥