उक्तव्याप्तेरनुग्राहकं तर्कमुपन्यस्यति –
फलादिति ।
हेतुफलयोर्मिथो हेतुफलत्वं ब्रुवतो मते हेत्वधीनतयाऽलब्धात्मकात् फलादुत्पद्यमानो हेतुर्न ततो लब्धात्मको भवत्यलब्धात्मकश्चासत्त्वान्न फलमुत्पादयितुं शक्नोति। अतो हेतुफलभावस्यैवासिद्धिरित्यर्थः।
हेतुफलयोरक्रमवतोर्न कार्यकारणभावेन सम्भन्धः सिध्यतीत्येतदाकाङ्क्षापूर्वकं साधयति –
कथमित्यादिना ।
स्वतो हेतुस्वरूपाज्जन्यं फलं तदधीनत्वेन लब्धात्मकं स्वतश्चालब्धात्मकम्। तत उत्पद्यमानः सन्नेष हेतुर्न प्रसिध्यति। न खलु शशविषाणादेरसतः सकाशात् किञ्चिल्लब्धात्मकमुपलभ्यते। हेतुश्चेदप्रसिद्धोऽलब्धात्मकोऽभ्युपगतः स तर्हि तथाविधोऽसद्रूपः सन्न फलमुत्पादयितुमुत्सहते। न हि सद्वादिमते फलमसतः सकाशादुपलब्धचरमित्यर्थः।
तथाऽपि कथं हेतुफलयोरसम्बन्धः सिध्यतीत्याशङ्क्याऽऽह –
न हीति ।
अन्यथा वेत्याधाराधेयभावादिकथनम्॥१७॥