हेतुफलयोर्यौगपद्ये सत्यन्यतरस्यापि न पूर्वक्षणे सत्तेत्यसतोः शशविषाणयोरिवान्योन्यापेक्षया जन्यजनकत्वं नोपपद्यते, शशविषाणादिष्वपि प्रसङ्गादित्युक्तम्। इदानीं “पुण्यो वै पुण्येन कर्मणा भवति”(बृ. उ. ३ । २ । १३) इत्यादिश्रुतेर्धर्मादिषु हेतुफलभावमाशङ्क्य श्रुतेरसम्भावितार्थे प्रामाण्यायोगादवश्यं पौर्वापर्यं वक्तव्यमित्याह –
यदीति ।
श्लोकाक्षराणि योजयति –
असम्बन्धतेत्यादिना ॥१८॥