माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः ।
कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥
असम्बन्धतादोषेणापाकृतेऽपि हेतुफलयोः कार्यकारणभावे, यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया, कतरत्पूर्वनिष्पन्नं हेतुफलयोः ? यस्य पश्चाद्भाविनः सिद्धिः स्यात्पूर्वसिद्धापेक्षया, तद्ब्रूहीत्यर्थः ॥

हेतुफलयोर्यौगपद्ये सत्यन्यतरस्यापि न पूर्वक्षणे सत्तेत्यसतोः शशविषाणयोरिवान्योन्यापेक्षया जन्यजनकत्वं नोपपद्यते, शशविषाणादिष्वपि प्रसङ्गादित्युक्तम्। इदानीं “पुण्यो वै पुण्येन कर्मणा भवति”(बृ. उ. ३ । २ । १३) इत्यादिश्रुतेर्धर्मादिषु हेतुफलभावमाशङ्क्य श्रुतेरसम्भावितार्थे प्रामाण्यायोगादवश्यं पौर्वापर्यं वक्तव्यमित्याह –

यदीति ।

श्लोकाक्षराणि योजयति –

असम्बन्धतेत्यादिना ॥१८॥