माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः ।
एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ १९ ॥
अथ एतन्न शक्यते वक्तुमिति मन्यसे, सेयमशक्तिः अपरिज्ञानं तत्त्वाविवेकः, मूढतेत्यर्थः । अथ वा, योऽयं त्वयोक्तः क्रमः हेतोः फलस्य सिद्धिः फलाच्च हेतोः सिद्धिरिति इतरेतरानन्तर्यलक्षणः, तस्य कोपः विपर्यासोऽन्यथाभावः स्यादित्यभिप्रायः । एवं हेतुफलयोः कार्यकारणभावानुपपत्तेः अजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिता अन्योन्यपक्षदोषं ब्रुवद्भिर्वादिभिः बुद्धैः पण्डितैरित्यर्थः ॥

हेतुफलयोरिदं पूर्वमिदं पश्चादिति न ज्ञायते, परस्पराश्रयात्। अतश्चेदं पूर्वनिष्पन्नमिति वक्तुमशक्यमित्याह –

अशक्तिरिति ।

उत्तरावसरे चेदुत्तरापरिज्ञानं तर्हि कथकाशक्तिसूचकं तन्निग्रहस्थानमप्रतिभाभिधानीयमापततीत्यर्थः। किं च यदि क्रमस्य नियतपूर्वापरभावात्मनोऽपरिज्ञानं सदा पूर्वं कारणमुत्तरं कार्यमिति प्रतिज्ञा हीयेत।

तथा च प्रतिज्ञाहानिर्निग्रहान्तरमापद्येतेत्याह –

क्रमेति ।

अन्योन्यपक्षप्रतिक्षेपमुखेन सतोऽसतश्च जन्मनी प्रत्याख्याते।

क्रमाक्रमाभ्यामुत्पत्तेरनुपपत्तेरजातिरेवास्मदभिप्रेता वादिभिरादर्शिता भवतीत्युपसंहरति –

एवं हीति ।

तत्राद्यं पादं व्याकरोति –

अथेत्यादिना ।

क्रमपक्षे पूर्वनिष्पन्नमेतच्छब्देन परामृश्यते।

द्वितीयपादं योजयति –

अथेवेत्यादिना ।

द्वितीयार्धं विवृणोति –

एवमिति ॥१९॥