माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः ।
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥
ननु हेतुफलयोः कार्यकारणभाव इत्यस्माभिरुक्तं शब्दमात्रमाश्रित्य च्छलमिदं त्वयोक्तम् — ‘पुत्राज्जन्म पितुर्यथा’ (मा. का. ४ । १५) ‘विषाणवच्चासम्बन्धः’ (मा. का. ४ । १६) इत्यादि । न ह्यस्माभिः असिद्धाद्धेतोः फलसिद्धिः, असिद्धाद्वा फलाद्धेतुसिद्धिरभ्युपगता । किं तर्हि ? बीजाङ्कुरवत्कार्यकारणभावोऽभ्युपगम्यत इति । अत्रोच्यते — बीजाङ्कुराख्यो दृष्टान्तो यः, स साध्येन समः तुल्यो ममेत्यभिप्रायः । ननु प्रत्यक्षः कार्यकारणभावो बीजाङ्कुरयोरनादिः ; न, पूर्वस्य पूर्वस्य अपरभावादादिमत्त्वाभ्युपगमात् । यथा इदानीमुत्पन्नोऽपरोऽङ्कुरो बीजादादिमान् बीजं चापरमन्यस्मादङ्कुरादिति क्रमेणोत्पन्नत्वादादिमत् । एवं पूर्वः पूर्वोऽङ्कुरो बीजं च पूर्वं पूर्वमादिमदेवेति प्रत्येकं सर्वस्य बीजाङ्कुरजातस्यादिमत्त्वात्कस्यचिदप्यनादित्वानुपपत्तिः । एवं हेतुफलयोः । अथ बीजाङ्कुरसन्ततेरनादिमत्त्वमिति चेत् ; न, एकत्वानुपपत्तेः ; न हि बीजाङ्कुरव्यतिरेकेण बीजाङ्कुरसन्ततिर्नामैका अभ्युपगम्यते हेतुफलसन्ततिर्वा तदनादित्ववादिभिः । तस्मात्सूक्तम् ‘हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते’ इति । तथा च अन्यदप्यनुपपत्तेर्न च्छलमित्यभिप्रायः । न च लोके साध्यसमो हेतुः साध्यस्य सिद्धौ सिद्धिनिमित्तं युज्यते प्रयुज्यते प्रमाणकुशलैरित्यर्थः । हेतुरिति दृष्टान्तोऽत्रभिप्रेतः, गमकत्वात् ; प्रकृतो हि दृष्टान्तः, न हेतुरिति ॥

बीजाङ्कुरयोरिव हेतुफलयोरन्योन्यं कार्यकारणभावाभ्युपगमान्नान्योन्याश्रयत्वमित्याशङ्क्याऽऽह –

बिजेति ।

दृष्टान्तस्य साध्यसमत्वेऽपि साधकत्वमस्त्वित्याशङ्क्याऽऽह –

न हीति ।

श्लोकापोद्यं चोद्यमुद्भावयति –

नन्विति ।

शब्दमात्रं विवक्षितार्थशून्यम्।

शब्दमाश्रित्य च्छल्प्रयोगमेवोदाहरति –

पुत्रादिति ।

आदिशब्देन ‘फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति’(मा. का. ४ । १७) इत्यादि गृह्यते।

कार्यकारणभावो हेतुफलयोरित्यत्रानभिप्रेतमर्थं कथयति –

न हीति ।

तत्रैव प्रश्नपूर्वकमभिप्रेतमर्थमुदाहरति –

किं तर्हीति ।

दृष्टान्तासम्प्रतिपत्त्या परिहरति –

अत्रेति ।

मायावादिमते क्वचिदपि कार्यकारणभावस्य वस्तुभूतस्यासम्प्रतिपत्तेर्ममेत्युक्तम् ।

प्रत्यक्षावष्टम्भेन दृष्टान्तं साधयन्नाशङ्कते –

नन्विति ।

किं बीजाङ्कुरव्यक्त्योरिदं कार्यकारणत्वमिष्यते किं वा बीजाङ्कुरसन्तानयोरिति विकल्प्याऽऽद्यं दूषयति –

न पूर्वस्येति ।

तदेव प्रपञ्चयति –

यथेत्यादिना ।

बीजव्यक्तेरङ्कुरव्यक्तेश्चोक्तप्रकारेणानादित्वस्यान्योन्यकारणत्वस्य चानुपपत्तिरिति शेषः।

कल्पन्तरमुत्थापयति –

अथेति ।

बीजसन्ततेरङ्कुरसन्ततेश्चानादित्वमन्योन्यकारणत्वं चाविरुद्धं सिध्यति। बीजजातीयादङ्कुरजातीयमङ्कुरजातीयाद् बीजजातीयमुत्पद्यमानमुपलभ्यते। तथैव हेतुजातीयात्फलजातीयं फलजातीजाच्च हेतुजातीयमविरुद्धमित्यर्थः।

दृष्टान्ते दार्ष्टान्तिके च सन्ततेरेकस्या व्यक्तेर्व्यतिरेकेणासम्भवान्मैवमिति दूषयति –

नेत्यादिना ।

तदेव प्रपञ्चयति –

न हीति ।

तदनादित्ववादिभिः तासु व्यक्तिषु मिथो हेतुत्वमनादित्वं तद्वदनशीलैरिति यावत्।

अन्योन्याश्रयत्वादनवस्थानाद्वा हेतुफलयोर्मिथो हेतुफलभावस्य वक्तुमशक्यत्वाद् दृष्टान्तदार्ष्टान्तिकयोरनुपपत्तिः सिद्धेत्युपसंहरति –

तस्मादिति ।

दृष्टान्तस्यासम्प्रतिपन्नत्वे स्थिते कार्यकारणस्य क्वचिदपि सम्प्रतिपत्त्यभावात् पुत्राज्जन्म पितुर्यथेत्यादि न च्छलप्रयुक्तमिति फलितमाह –

तथा चेति ।

एवं श्लोकस्य पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे –

न चेति ।

किमिति हेतुशब्दस्य मुख्यमर्थं त्यक्त्वा गौणोऽर्थो गृह्यते? प्रकरणसामर्थ्यादित्याह –

प्रकृतो हीति ।

हेतुफलभावानुपपत्तिमुपपादितामुपसंहर्तुमितिशब्दः॥२०॥