माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः ।
आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३ ॥
किञ्च, हेतुफलयोरनादित्वमभ्युपगच्छता त्वया बलाद्धेतुफलयोरजन्मैवाभ्युपगतं स्यात् । कथम् ? अनादेः आदिरहितात्फलात् हेतुः न जायते । न ह्यनुत्पन्नादनादेः फलाद्धेतोर्जन्मेष्यते त्वया, फलं चापि आदिरहितादनादेर्हेतोरजात्स्वभावत एव निर्निमित्तं जायत इति नाभ्युपगम्यते । तस्मादनादित्वमभ्युपगच्छता त्वया हेतुफलयोरजन्मैवाभ्युपगम्यते । यस्मात् आदिः कारणं न विद्यते यस्य लोके, तस्य ह्यादिः पूर्वोक्ता जातिर्न विद्यते । कारणवत एव ह्यादिरभ्युपगम्यते, न अकारणवतः ॥

वस्तुनो वस्तुतो जन्मराहित्ये हेत्वन्तरमाह –

हेतुर्नेति ।

नानादेः फलाद्धेतुर्जायते। न हि फलस्यानादित्वे ततो हेतुजन्म युक्तं सदा तज्जन्मप्रसङ्गादित्यर्थः।

फलमपि न हेतोरनादेर्जायते दोषसाम्यादित्याह –

फलं चेति ।

नापि स्वभावतो निमित्तमन्तरेण फलं हेतुर्वा जायते।

तत्र हेतुमाह –

आदिरिति ।

कारणरहितस्य जन्मानुपलब्धेरित्यर्थः।

वस्तुनो वस्तुतो जन्माभावे हेत्वन्तरपरत्वं श्लोकस्य सूचयति –

किं चेति ।

हेत्वन्तरमेव दर्शयितुं प्रथमं प्रतिज्ञां करोति –

हेत्विति ।

फलाद्धेतुर्जायते, ततश्च फलमित्यभ्युपगमात् कथमजन्माभ्युपगतमिति पृच्छति –

कथमिति ।

तत्राऽऽद्यपादाक्षरयोजनया परिहरति –

अनादेरिति ।

तदेवोपपादयति –

न हीति ।

फलं कार्यकरणसङ्घातः। हेतुर्धर्मादिः।

फलं चापीति भागं विभजते –

फलं चेति ।

अजाज्जायत इति नाभ्युपगम्यत इति सम्बन्धः।

स्वभावत इति पदं योजयति –

स्वभावत एवेति ।

फलितं निगमयति –

तस्मादिति ।

न हेतुफलयोर्जन्मवतोरनादित्वमभ्युपगन्तुं शक्यम्। अभ्युपगमे च जन्मैव तयोराकस्मिकं स्यादित्यर्थः।

स्वभाववादनिराकरणं प्रतिज्ञातमुत्तरार्धावष्टम्भेन प्रतिपादयति –

यस्मादिति ॥२३॥