वस्तुनो वस्तुतो जन्मायोगादजं विज्ञानमात्रं तत्त्वमित्युक्तम्। इदानीं बाह्यार्थवादमुत्थापयति –
प्रज्ञप्तेरिति ।
ज्ञानस्य निर्विषयत्वे प्रत्ययवैचित्र्यानुपपत्तिं प्रमाणयति –
अन्यथेति ।
अग्निदाहादिप्रयुक्तदुःखोपलब्ध्यनुपपत्तेश्चास्ति बाह्यार्थ इत्याह –
संक्लेशस्येति ।
परतन्त्रं परकीयं शास्त्रं, तस्यास्तिता तद्विषयस्य बाह्यार्थस्य विद्यमानतेति यावत्।
श्लोकस्य तात्पर्यमाह –
उक्तस्यैवेति ।
वस्तुनो नास्ति वस्तुतो जन्मेत्युक्तार्थस्तस्यैव दृढीकरणं पूर्वोत्तरपक्षाभ्यां चिकीर्ष्यते। तया पुनराक्षेपमुखेन बाह्यार्थवादिनां प्रस्थानमुत्थापयतीत्यर्थः।
ब्रह्मस्वरूपभूतां प्रज्ञप्तिं प्रतिषेधति –
शब्ददीति ।
साकारवादं व्युदस्यति –
स्वात्मेति ।
प्रज्ञप्तेर्विषयनिरपेक्षत्वान्न स्वातिरिक्तविषयतेत्याशङ्क्याऽऽह –
न हीति ।
सनिमित्तत्वं सविषयत्वेन स्फुरणम्।
तमेव हेतुं द्वितीयपादयोजनया विशदयति –
अन्यथेति ।
प्रसङ्गस्येष्टत्वं प्रत्याचष्टे –
न चेति ।
प्रत्ययवैचित्र्यानुपपत्तिप्रयुक्तं फलं चतुर्थपादव्याख्यानेन कथयति –
अत इति ।
ननु प्रज्ञप्तेः स्वभावभेदेनैव बाह्यालम्बनं वैचित्र्यमन्तरेण स्वगतं वैचित्र्यं घटिष्यते, तत्राऽऽह –
न हीति ।
औपाधिकं तर्हि प्रत्ययवैचित्र्यमित्याशङ्क्य बाह्यार्थतिरिक्तोपाध्यनधिगमान्मैवमित्याह –
स्फटिकस्येति ।
तृतीयपादं हेत्वन्तरपरत्वेनावतारयति –
इतिश्चेति ।
तस्योपलब्धिमुपपादयति –
उपलभ्यते हीति ।
तदुपलम्भेऽपि कुतो बाह्यार्थसिद्धिरित्याशङ्क्याऽऽह –
यदीति ।
उपलब्धिरेव तर्हि दुःखस्य मा भूदिति चेन्न।
स्वानुभवविरोधादित्याह –
उपलभ्यते त्विति ।
विशिष्टदुःखोपलब्ध्यनुपपत्तिसिद्धं फलमाह –
अत इति ।
विज्ञानातिरिक्तबाह्यार्थाभावेऽपि क्लेशोपलब्धिरविरुद्धेत्याशङ्क्याऽऽह –
न हीति ।
अन्यत्र दाहच्छेदादिव्यतिरिक्ते चन्दनपङ्कलेपादाविति यावत् ॥२४॥