द्वाभ्यामर्थापत्तिभ्यां बाह्यार्थवादे प्राप्ते विज्ञानवादमुद्भावयति –
प्रज्ञप्तेरिति ।
अस्तु का नाम वस्तुक्षतिरित्याशङ्क्याऽऽह –
निमित्तस्येति ।
मतान्तरे प्राप्ते तन्निराकरणमुच्यते निज्ञानवादिनेति श्लोकस्य तात्पर्यमाह –
अत्रेति ।
तत्र पूर्वार्धं विभजते –
बाढमित्यादिना ।
द्वैतिनस्तव तर्कप्रधानत्वान्न प्रतीतिमात्रशरणता युक्तेति मत्वाऽऽह –
स्थिरीभवेति ।
वस्तुनो बाह्यस्यार्थस्य तथात्वं प्रज्ञप्तिविषयत्वं तस्याभ्युपगमे कारणं प्रागुक्तयुक्तिदर्शनमित्येतस्मिन्नर्थे त्वं स्थिरीभवेति योजना।
विचारदृष्टिमेवावष्टभ्याहं वर्ते, किं ततः, दूषणं ब्रूहीति पृच्छति –
ब्रूहीति ।
तत्रोत्तरार्धं सिद्धान्ती व्याकुर्वन्नुत्तरमाह –
उच्यत इत्यादिना ।
घटादेर्वैचित्र्याहेतुत्वे प्रश्नपूर्वकं हेतुमाह –
कथमित्यादिना ।
परमार्थदर्शनं प्रपञ्चयति –
न हीति ।
तत्र वैधर्म्यदृष्टान्तमाह –
यथेति ।
घटे दर्शितं न्यायं पटेऽपि दर्शयति –
पटो वेति ।
तन्तुष्वपि न्यायसाम्यमुदाहरति –
तन्तव इति ।
परमार्थदर्शनफलमुपसंहरति –
इत्येवमिति ।
घटादीनां स्वकारणव्यतिरेकेणासतां न प्रत्ययवैचित्र्यहेतुत्वमतो घटादिप्रत्ययवत्प्रत्ययान्तराण्यपि प्रत्ययत्वाविशेषाद् वास्तवालम्बनवर्जितानि मन्तव्यानीत्यर्थः। भूतदर्शनं यौक्तिकं तत्त्वदर्शनं ततो निमित्तस्यानिमित्तत्वमिति व्याख्यातम्।
इदानीमभूतदर्शनादिति पदच्छेदेन व्याख्यानान्तरमाह –
अथवेति ।
यथा रज्ज्वादावधिष्ठाने सर्पादेरारोपितस्य दर्शनान्न तस्य वस्तुतो दर्शनं प्रत्यालम्बनत्वमिष्टम्। तथैवाधिष्ठानज्ञानापेक्षया परमार्थतो दर्शनाद् बाह्यस्यार्थस्य ज्ञानं प्रत्यालम्बनत्वं वास्तवमभ्युपगन्तुमशक्यमित्यर्थः।
किञ्च विमतो बाह्यार्थो न तत्त्वतो ज्ञानं प्रत्यालम्बनं भ्रान्तिविषयत्वाद् रज्ज्वां सर्पादिवदित्याह –
भ्रान्तीति ।
हेतुं साधयति –
तदभाव इति ।
भ्रान्त्यभावे बाह्यार्थो न भातीत्युक्तं हेतुं प्रपञ्चयति –
न हीति ।
देहाभिमानवतो बाह्यार्थप्रतिभानध्रौव्यादद्वैतदर्शिनोऽपि तत्प्रतिभानमप्रत्यूहं प्राप्नोतीत्याशङ्क्याऽऽह –
न ह्युन्मत्तेति ।
बाह्यार्थसमर्थनार्थमुक्तमर्थापत्तिद्वयं कथं निरसनीयमित्याह –
एतेनेति ।
तत्त्वदर्शिनां स्फुरणातिरिक्तवस्त्वनुपलम्भप्रदर्शनेन वैचित्र्यदर्शनं दुःखोपलब्धिश्च प्रत्युक्ता। तेनानुपपद्यमानार्थापत्तिद्वयस्यानुत्थानम्। व्यवहारदृष्ट्या तु पूर्वभ्रमसमारोपितस्वप्नवदेव संवेदने वैचित्र्यं दुःखं च व्यवहाराङ्गमित्यन्यथाऽप्युपपत्तिरित्यर्थः॥२५॥