माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च ।
अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६ ॥
यस्मान्नास्ति बाह्यं निमित्तम् , अतः चित्तं न स्पृशत्यर्थं बाह्यालम्बनविषयम् , नाप्यर्थाभासम् , चित्तत्वात् , स्वप्नचित्तवत् । अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थो यतः उक्तहेतुत्वाच्च । नाप्यर्थाभासश्चित्तात्पृथक् । चित्तमेव हि घटाद्यर्थवदवभासते यथा स्वप्ने ॥

ज्ञानस्य सालम्बनत्वप्रसिद्धेस्तत्त्वदृष्ट्या ज्ञेयाभावे ज्ञानमपि न स्यादित्याशङ्क्याऽऽह –

चित्तमिति ।

न हि स्फुरणं सकर्मकं तस्य सकर्मकत्वप्रसिद्ध्यभावात्। जानातेस्तु सकर्मकत्वं क्रियाफलत्वकल्पनया स्वीकृतमिति भावः।

चित्तस्यार्थस्पर्शित्वाभावेऽपि तदाभासस्पर्शित्वं स्यादित्याशङ्क्याऽऽह –

नार्थेति ।

तत्र हेतुमाह –

अभूत इति ।

प्रथमपादं व्याचष्टे –

यस्मादिति ।

विमतं चित्तमर्थाभासमपि न स्पृशति चित्तत्वात् सम्प्रतिपन्नवदिति द्वितीयं पादं विभजते –

नापीति ।

न हि दृष्टान्ते तस्यार्थाभासस्पर्शित्वं तस्यैव तदात्मना भानादित्यर्थः।

तृतीयपादं व्याकरोति –

अभूतो हीति ।

विमतोऽर्थः सन्न भवत्यर्थत्वात् सम्प्रतिपन्नवदित्यनुमानान्न ज्ञानस्याऽऽलम्बनमित्यर्थः।

विमतोऽर्थः स्वविषयज्ञानजनको न भवति भ्रान्तिविषयत्वात् सम्प्रतिपन्नवदित्युक्तमनुमानं स्मारयति –

उक्तेति ।

अर्थजन्यत्वाभावेऽपि ज्ञानस्यार्थाभासजन्यत्वं स्यादित्याशङ्क्य चतुर्थपादार्थमाह –

नापीति ॥२६॥