माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु ।
अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७ ॥
ननु विपर्यासस्तर्हि असति घटादौ घटाद्याभासता चित्तस्य ; तथा च सति अविपर्यासः क्वचिद्वक्तव्य इति ; अत्रोच्यते — निमित्तं विषयम् अतीतानागतवर्तमानाध्वसु त्रिष्वपि सदा चित्तं न संस्पृशेदेव हि । यदि हि क्वचित्संस्पृशेत् , सः अविपर्यासः परमार्थ इत्यतस्तदपेक्षया असति घटे घटाभासता विपर्यासः स्यात् ; न तु तदस्ति कदाचिदपि चित्तस्यार्थसंस्पर्शनम् । तस्मात् अनिमित्तः विपर्यासः कथं तस्य चित्तस्य भविष्यति ? न कथञ्चिद्विपर्यासोऽस्तीत्यभिप्रायः । अयमेव हि स्वभावश्चित्तस्य, यदुत असति निमित्ते घटादौ तद्वदवभासनम् ॥

ज्ञानस्य सालम्बनत्वाभावे तस्य तथात्वप्रथा भ्रान्तिर्भवेत्। भ्रान्तिश्चाभ्रान्तिप्रतियोगिनीत्यन्यथाख्यातिमाशङ्क्याऽह –

निमित्तमिति ।

कालत्रयेऽपि ज्ञानस्य वस्तुतोऽर्थस्पर्शित्वाभावे तद्वासनाभावात् तज्जन्या नान्यथाख्यातिः सिध्यति।

भ्रान्तिस्तु विधान्तरेणापि भविष्यतीत्याह –

अनिमित्त इति ।

श्लोकव्यावर्त्यामाशङ्कां दर्शयति –

नन्विति ।

यदि घटादिर्बाह्योऽर्थो न गृह्यते तर्हि तस्मिन्नसत्येव तदाभासता ज्ञानस्य विपर्यासः। अतस्मिंस्तदबुद्धेस्तथात्वात्। विपर्यासे च स्वीकृते क्वचिदप्यविपर्यासो वक्तव्यः, भ्रान्तेरभ्रान्तिपूर्वकत्वस्यान्यथाख्यातिवादिभिरिष्टत्वादित्यर्थः।

तत्र पुर्वार्धयोजनया परिहरति –

अत्रेति ।

उक्तमेवार्थमुत्तरार्धयोजनया साधयति –

यदीति ।

अभ्रान्तेरभावादसम्भवे भ्रान्तेरसति घटादौ घटाद्याभासता ज्ञानस्य कथं निर्वहतीत्याशङ्क्याऽऽह –

अयमेवेति ।

स्वभावशब्देनाविद्योच्यते। न हि भ्रान्तिरभ्रान्तिपूर्विकेति नियमः। सविषयाणां भ्रमाणामविद्यात्वाभ्युपगमादित्यर्थः॥२७॥