बाह्यार्थवादिपक्षमेवं विज्ञानवादिमुखेन प्रतिक्षिप्य विज्ञानवादमिदानीमपवदति –
तस्मादिति ।
प्रतिक्षणं विज्ञानस्य जन्म दृश्यते विज्ञानवादिभिरित्याशङ्क्याऽऽह –
तस्येति ।
वृत्तसङ्कीर्तनपूर्वकं श्लोकस्य तात्पर्यमाह –
प्रज्ञप्तेरिति ।
तच्च बाह्यार्थवादिनो बाह्योऽर्थो विज्ञानवदस्तीति पक्षप्रतिषेधमुखेन प्रवृत्तम्, तत्पुनराचार्येण भवत्वेवमित्यनुज्ञातम्, बाह्यार्थवाददूषणस्य स्वमतेऽपि संमतत्वादित्याह –
बाह्यार्थेति ।
बाह्यार्थवाददूषणानुमोदनप्रयोजनमाह –
तदेवेति ।
असत्येव घटादौ घटाद्याभासत्वं विज्ञानस्य यदुक्तं तदेव हेतुत्वेनोपादाय विज्ञानवादनिषेधार्थं बाह्यार्थपक्षदूषणमनुमोदितमित्यर्थः।
सम्प्रति विज्ञानवाददूषणमवतारयति –
तदिदमिति ।
तस्मादित्यादि व्याचष्टे –
यस्मादिति ।
भूतदर्शनाद्घटादेर्मृदादिमात्रं भूतं वस्तुतत्त्वं तस्यापि विज्ञप्तिमात्रं तत्त्वं तस्य शास्त्रतो दर्शनादिति यावत्।
द्वितीयपादं दृष्टान्तत्वेन विभजते –
यथेति ।
विमतं विज्ञानजन्म न तात्त्विकं दृश्यत्वान्नीलपीतादिवदित्यर्थः।
विपक्षे दोषमाह –
अत इति ।
तत्त्वतो विज्ञानस्य जन्मायोगाद् ये तस्य तात्त्विकं जन्म पश्यन्ति ते पक्ष्यादीनां खेऽपि पदं पश्यन्तीत्यन्वयः। अनात्मत्वादीत्यादिशब्देनान्योन्यविलक्षणत्वमन्योन्यसादृश्यं च गृह्यते।
तत्र हेतुं सूचयति –
तेनैवेति ।
स्ववृत्तेरनुपपत्तेस्तद्दृश्यतामन्तरेण च तद्धर्मदृश्यताऽसम्भवादित्यर्थः।
विज्ञानवादे फलितं विशेषं दर्शयति –
अत इति ।
शून्यवादिनं प्रति विशेषं कथयति –
येऽपीति ।
पश्यन्त एवेत्यविलुप्तदृग्रूपता द्योत्यते। दृग्बलादेव सर्वाभावः सिध्यति। दृगभावस्तु कथं सिध्येत्। न च तावद् दृगेव तदभावं साधयेत्। तयोरेककालत्वानुपपत्तेरित्यर्थः। किं च सर्वशून्यतां वदन्तः शून्यतादर्शनस्य स्वात्मदर्शनस्य च शून्यतां वदन्ति।
तथा च स्वपक्षासिद्धिरित्यभिप्रेत्याऽऽह –
स्वदर्शनस्येति ।
ततोऽपीति विज्ञानवादिभ्योऽपीत्यर्थः॥२८॥