माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् ।
संवृतेऽस्मिन्प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३ ॥
‘निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात्’ (मा. का. ४ । २५) इत्ययमर्थः प्रपञ्च्यते एतैः श्लोकैः ॥

किं च येन हेतुना स्वप्नस्य मिथ्यात्वमिष्टं तस्य जागरितेऽपि तुल्यत्वाज्जन्मादिरहितं संविन्मात्रं तत्त्वमेष्टव्यमिति विवक्षित्वाऽऽह –

सर्व इति ।

यदि देहान्तर्दर्शनान्मिथ्यात्वं स्वप्नस्येष्टं तर्हि वैराजदेहे सर्वस्य जागरितस्य दर्शनान्मिथ्यात्वं दुर्वारमित्यर्थः ।

किञ्च योग्यदेशवैधुर्यान्मिथ्यात्वं स्वप्नस्य यद्यभीष्टं तर्हि संवृते प्रदेशे पृथग्भूते ब्रह्मण्यखण्डैकरसे भूतानां विद्यमानानां दर्शनं न कुतोऽपि स्याद् ब्रह्मणोऽनवकाशत्वादित्याह –

संवृत इति ।

अवतारितश्लोकसहितानामुत्तरश्लोकानां ‘जात्याभासम्’(मा. का. ४ । ४५) इत्यस्मात्प्राक्तनानां तात्पर्यमाह –

निमित्तस्येति ॥३३॥