माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते ।
तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७ ॥
इतश्च असत्त्वं जाग्रद्वस्तुनः जागरितवत् जागरितस्येव ग्रहणात् ग्राह्यग्राहकरूपेण स्वप्नस्य, तज्जागरितं हेतुः अस्य स्वप्नस्य स स्वप्नः तद्धेतुः जागरितकार्यम् इष्यते । तद्धेतुत्वात् जागरितकार्यत्वात् तस्यैव स्वप्नदृश एव सज्जागरितम् , न त्वन्येषाम् ; यथा स्वप्न इत्यभिप्रायः । यथा स्वप्नः स्वप्नदृश एव सन् साधारणविद्यमानवस्तुवदवभासते, तथा तत्कारणत्वात्साधारणविद्यमानवस्तुवदवभासनम् , न तु साधारणं विद्यमानवस्तु स्वप्नवदेवेत्यभिप्रायः ॥

यथा जागरितं तथा स्वप्नो गृह्यते। तथा च स्वप्नस्य जागरितकार्यत्वाद् यः स्वप्नद्रष्टा तस्यैव जागरितं सदिति स्वप्नवत् तन्मिथ्यात्वमित्याह –

ग्रहणादिति ।

किं च जागरितस्य विद्यमानत्वमनेकसाधारणत्वं च वस्तुतो नास्ति स्वप्नकारणत्वात्किं तु तथा भासमानत्वमित्याह –

तद्धेतुत्वादिति ।

जागरितस्य वस्तुतोऽसत्त्वे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –

इतश्चेति ।

इतः शब्दार्थमेव स्फोरयन् पूर्वार्धं योजयति –

जागरितवदिति ।

उत्तरार्धं योजयति –

तद्धेतुत्वादिति ।

सति प्रमातरि बाध्यत्वं स्वप्नस्य मिथ्यात्वं, जागरितस्य पुनस्तदनुपलम्भात् परमार्थतः सत्त्वम्। कार्यस्य मिथ्यात्वे कारणस्यापि मिथ्यात्वमिति मानाभावात्।

न हि सर्वसाधारणं विद्यमानं जागरितं मिथ्या भवितुं युक्तमित्याशङ्क्याऽऽह –

यथेत्यादिना ॥३७॥