माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ।
असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ३९ ॥
ननु उक्तं त्वयैव स्वप्नो जागरितकार्यमिति ; तत्कथमुत्पादोऽप्रसिद्ध इति उच्यते ? शृणु तत्र यथा कार्यकारणभावोऽस्माभिरभिप्रेत इति । असत् अविद्यमानं रज्जुसर्पवद्विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितस्तन्मयः स्वप्नेऽपि जागरितवत् ग्राह्यग्राहकरूपेण विकल्पयन्पश्यति, तथा असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति अविकल्पयन् , च - शब्दात् । तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचिदित्यर्थः । तस्माज्जागरितं स्वप्नहेतुरित्युच्यते, न तु परमार्थसदिति कृत्वा ॥

यदुक्तमुत्पादस्याप्रसिद्धत्वं तदयुक्तम्, स्वप्नजागरितयोस्त्वया कार्यकारणत्वाङ्गीकरणादित्याशङ्क्याऽऽह –

असदिति ।

जागरिते दृष्टस्य स्वप्ने दर्शनाज्जागरितस्य सप्नं प्रति कारणत्वं चेत् तर्हि स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तस्य जागरितं प्रति कारणत्वं किं न स्यादित्याशङ्क्याऽऽह –

असत्स्वप्नेति ।

श्लोकव्यावर्त्यामाशङ्कामुत्थापयति –

नन्विति ।

पूर्वापरविरोधे चोदिते परिहारे कथ्यमाने मनःसमाधानं प्रार्थयते –

शृण्विति ।

तमेव प्रकारं प्रकटयन्नक्षराणि योजयति –

असदिति ।

तुच्छत्वं व्यवच्छिनत्ति –

रज्ज्विति ।

दर्शनस्याऽऽभासत्वं सूचयति –

विकल्पितमिति ।

यथा जाग्रद्दृष्टस्य विशेषस्य स्वप्ने दर्शनाज्जागरितवासनाधीनः स्वप्नो जागरितकार्यत्वेन व्यवह्रियते तथा स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तत्कार्यत्वं जागरितस्य प्राप्तमित्याशङ्क्य द्वितीयार्धं व्याचष्टे –

तथेति ।

यत्तु स्वप्नजागरितयोरुक्तं कार्यकारणत्वं तदपि न नियतमिति निपातार्थं कथयति –

चशब्दादिति ।

तस्मात्प्रायशः स्वप्नस्य जाग्रद्वासनाधीनत्वादिति यावत्।

जागरितस्य परमार्थसत्त्वात् कार्यस्य स्वप्नस्यापि तादात्म्यात् तथात्वं विवक्षित्वा कार्यकारणत्वप्रथा कथं न भवतीति व्यावर्त्यं कथयति –

न त्विति ॥३९॥