यदुक्तमुत्पादस्याप्रसिद्धत्वं तदयुक्तम्, स्वप्नजागरितयोस्त्वया कार्यकारणत्वाङ्गीकरणादित्याशङ्क्याऽऽह –
असदिति ।
जागरिते दृष्टस्य स्वप्ने दर्शनाज्जागरितस्य सप्नं प्रति कारणत्वं चेत् तर्हि स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तस्य जागरितं प्रति कारणत्वं किं न स्यादित्याशङ्क्याऽऽह –
असत्स्वप्नेति ।
श्लोकव्यावर्त्यामाशङ्कामुत्थापयति –
नन्विति ।
पूर्वापरविरोधे चोदिते परिहारे कथ्यमाने मनःसमाधानं प्रार्थयते –
शृण्विति ।
तमेव प्रकारं प्रकटयन्नक्षराणि योजयति –
असदिति ।
तुच्छत्वं व्यवच्छिनत्ति –
रज्ज्विति ।
दर्शनस्याऽऽभासत्वं सूचयति –
विकल्पितमिति ।
यथा जाग्रद्दृष्टस्य विशेषस्य स्वप्ने दर्शनाज्जागरितवासनाधीनः स्वप्नो जागरितकार्यत्वेन व्यवह्रियते तथा स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तत्कार्यत्वं जागरितस्य प्राप्तमित्याशङ्क्य द्वितीयार्धं व्याचष्टे –
तथेति ।
यत्तु स्वप्नजागरितयोरुक्तं कार्यकारणत्वं तदपि न नियतमिति निपातार्थं कथयति –
चशब्दादिति ।
तस्मात्प्रायशः स्वप्नस्य जाग्रद्वासनाधीनत्वादिति यावत्।
जागरितस्य परमार्थसत्त्वात् कार्यस्य स्वप्नस्यापि तादात्म्यात् तथात्वं विवक्षित्वा कार्यकारणत्वप्रथा कथं न भवतीति व्यावर्त्यं कथयति –
न त्विति ॥३९॥