व्यवहारदृष्ट्या कार्यकारणत्वं स्वप्नजागरितयोरुक्तम्। तत्त्वदृष्ट्या त्वप्रसिद्धमेव क्वचिदपि कार्यकारणत्वमिति वदन् वस्तुनोऽज्ञानादवस्त्वेव कार्यं भवतीति मतं व्यावर्त्तयति –
नास्तीति ।
शून्यवादिनस्तु सदेव कार्यं जायते शून्यादिति मन्यते, तान्प्रत्याह –
सदिति ।
तथेत्यनेन नास्तीत्येतदनुकृष्यते।
साङ्ख्यादयस्तु कार्यकरणयोर्द्वयोरपि सत्त्वं सङ्गिरन्ते, तान्प्रत्युक्तम् –
सच्चेति ।
सद् ब्रह्म कारणं मिथ्याप्रपञ्चसृष्टेरित्येके वर्णयन्ति, तान्निराचष्टे –
सद्धेतुकमिति ।
श्लोकस्य तात्पर्यमाह –
परमार्थस्त्विति ।
प्रसिद्धं कार्यकारणत्वं यया कया च प्रक्रियया प्रतिपादयितुमुचितमन्यथा प्रसिद्धिप्रकोपादित्याक्षिपति –
कथमिति ।
अनिर्वाच्यं मायामयं कार्यकारणत्वम् प्रतीतिमात्रसिद्धमयौक्तिकमधिकृत्य प्रसिद्धिरविरुद्धेत्यभिसन्धायाऽऽद्यं पादं विभजते –
नास्तीत्यादिना ।
द्वितीयं पादं व्याचष्टे –
तथेत्यादिना ।
तृतीयं पादं व्याकरोति –
तथा सच्चेति।
चतुर्थपादार्थमाह –
असदिति ।
अस्तु तर्हि प्रकारान्तरेण कार्यकारणभाव इत्याशङ्क्य योग्यानुपलब्धिविरुद्धत्वान्मैवमित्याह –
न चेति ॥४०॥