माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् ।
तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति ॥ ४१ ॥
पुनरपि जाग्रत्स्वप्नयोरसतोरपि कार्यकारणभावाशङ्कामपनयन्नाह — विपर्यासात् अविवेकतः यथा जाग्रत् जागरिते अचिन्त्यान्भावान् अशक्यचिन्तनान् रज्जुसर्पादीन् भूतवत् परमार्थवत् स्पृशेत् ; स्पृशन्निव विकल्पयेदित्यर्थः, कश्चिद्यथा, तथा स्वप्ने विपर्यासात् हस्त्यादीन्पश्यन्निव विकल्पयति । तत्रैव पश्यति, न तु जागरितादुत्पद्यमानानित्यर्थः ॥

स्वप्नजागरितयोर्वस्तुतो नास्ति कार्यकारणत्वमित्यत्रैव हेत्वन्तरमाह –

विपर्यासादिति ।

श्लोकस्य तात्पर्यमाह –

पुनरपीति ।

अक्षरार्थं कथयति –

विपर्यासादित्यादिना ।

कश्चिदित्यस्य पूर्वेण क्रियापदेन सम्बन्धः।

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेत्यादिना ॥४१॥