तत्त्वदृष्ट्या कार्यकारणत्वस्याप्रसिद्धत्वे कथं जन्मादिसूत्रप्रमुखैः सूत्रैर्जगत्कारणत्वं ब्रह्म सूत्रितमित्याशङ्क्याऽऽह –
उपलम्भादिति ।
अविवेकिनां विवेकोपायत्वेन कार्यकारणत्वमुपेत्य सूत्रकारप्रवृत्तिरित्यर्थः।
श्लोकाक्षराणि व्याचष्टे –
याऽपीत्यादिना ।
अस्ति वस्तुभावो द्वैतस्येति शेषः।
कार्यकारणभावमुपेत्य जन्मोपदिशतामद्वैतवादिनां मन्दविवेकिषु विवेकदार्ढ्योपायत्वेन कथं तदुपदेशः स्यादित्याशङ्क्याऽऽह –
तामिति ।
यदा ब्रह्मणः सकाशादशेषं जगद्भवतीत्यभ्युपेतं तदा तदतिरेकेण जगतोऽभावाद् ब्रह्मैव सर्वमिति निश्चितम्। तद्विषयेषु च वेदान्तेषु पौर्वापर्येणाऽऽलोचितेषु तदभ्यासिनां तेषां तदभ्यासप्रसादादेव कूटस्थाद्वितीयवस्तुविवेकदार्ढ्यं सेत्स्यतीत्यभिप्रेत्याद्वैतवादिभिर्जातिरुपदिष्टा, न तु द्वैतस्य श्रुतितो न्यायतश्च निरूपयितुमशक्यस्य परमार्थत्वं गृहीत्वा जातिरुपदिष्टेत्यजातिरेव पारमार्थिकीत्यर्थः।
चतुर्थपादार्थमाह –
ते हीति ।
तेषां विवेकोपायत्वेन जातिरुपदिष्टेत्यत्रोपक्रममनुकूलयति –
उपाय इति ॥४२॥