माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
उपलम्भात्समाचारान्मायाहस्ती यथोच्यते ।
उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४ ॥
ननु उपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्विति ; न, उपलम्भसमाचारयोर्व्यभिचारात् । कथं व्यभिचार इति, उच्यते — उपलभ्यते हि मायाहस्ती हस्तीव, हस्तिनमिवात्र समाचरन्ति बन्धनारोहणादिहस्तिसम्बन्धिभिर्धर्मैः, हस्तीति चोच्यते असन्नपि यथा, तथैव उपलम्भात्समाचारात् द्वैतं भेदरूपं अस्ति वस्तु इत्युच्यते । तस्मान्नोपलम्भसमाचारौ द्वैतवस्तुसद्भावे हेतू भवत इत्यभिप्रायः ॥

यत्तु हेतुभ्यां द्वैतस्यास्तित्वमुक्तं तद् दूषयति –

उपलम्भादिति ।

श्लोकव्यावर्त्यामाशङ्कामनूद्य दूषयति –

नन्वित्यादिना ।

व्यभिचारस्यासिद्धिमाशङ्क्य परिहरति –

कथमित्यादिना ।

उपलम्भसमाचारौ मायामये हस्तिनि वस्तुत्वाभावेऽपि भवतः, तथा द्वैतेऽपि न तयोरस्ति वस्तुत्वसाधकत्वमित्युपसंहरति –

तस्मादिति ॥४४॥