माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
जात्याभासं चलाभासं वस्त्वाभासं तथैव च ।
अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥
किं पुनः परमार्थसद्वस्तु, यदास्पदा जात्याद्यसद्बुद्धय इत्याह — अजाति सत् जातिवदवभासत इति जात्याभासम् , तद्यथा देवदत्तो जायत इति । चलाभासं चलमिवाभासत इति, यथा स एव देवदत्तो गच्छतीति । वस्त्वाभासं वस्तु द्रव्यं धर्मि, तद्वदवभासत इति वस्त्वाभासम् , यथा स एव देवदत्तो गौरो दीर्घ इति । जायते देवदत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते । परमार्थतस्तु अजमचलमवस्तुत्वमद्रव्यं च । किं तदेवंप्रकारम् ? विज्ञानं विज्ञप्तिः, जात्यादिरहितत्वाच्छान्तम् अत एव अद्वयं च तदित्यर्थः ॥

भूतदर्शनावष्टम्भेन निमित्तस्यानिमित्तत्वमुक्तमेतदन्तैः श्लोकैर्विप्रपञ्चितम्। सम्प्रति भूतदर्शनमुपसंहरति –

जात्याभासमिति ।

श्लोकाक्षराण्याकाङ्क्षाद्वारा विवृणोति –

किं पुनरित्यादिना ।

गौरत्वदीर्घत्वोक्त्या देवदत्तस्य गुणवत्त्वेन द्रव्यत्वं स्फुटीक्रियते।

पूर्वार्धार्थानुवादेनापरार्धं योजयति –

जायत इत्यादिना ।

विशेष्यं प्रश्नपूर्वकं विशदयति –

किं तदित्यादिना ॥४५॥