माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
ऋजुवक्रादिकाभासमलातस्पन्दितं यथा ।
ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४७ ॥
यथोक्तं परमार्थदर्शनं प्रपञ्चयिष्यन्नाह — यथा हि लोके ऋजुवक्रादिप्रकाराभासम् अलातस्पन्दितम् उल्काचलनम् , तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः । किं तत् ? विज्ञानस्पन्दितं स्पन्दितमिव स्पन्दितमविद्यया । न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति, ‘अजाचलम्’ (मा. का. ४ । ४५) इति ह्युक्तम् ॥

विज्ञानमजमचलमेव जात्याभासं चलाभासं चेत्युक्तम्, तदिदानीं दृष्टान्तेन प्रपञ्चयति –

ॠजुवक्रादिकेति ।

अप्रच्युतपूर्वस्वरूपस्यासत्यनानाकारावभासो विवर्तः, तदत्र विज्ञानस्य स्पन्दितत्वम्।

श्लोकस्य तात्पर्यमाह –

यथोक्तमिति ।

तत्र दृष्टान्तभागं व्याचष्टे –

यथा हीति ।

दार्ष्टान्तिकं योजयति –

तथेति ।

किमित्यविद्यामन्तरेण मुख्यमेव स्पन्दनं विज्ञानस्य नेष्यते, तत्राऽऽह –

न हीति ।

निरवयवस्य विभुनो विज्ञानस्य वस्तुतश्चलनविकलस्याविद्यमानमेव स्पन्दनमित्यत्र वाक्योपक्रमानुकूल्यं कथयति –

अजेति ॥४७॥