अलातदृष्टान्ते कथमृजुवक्रादीनामसत्त्वमित्याशङ्कायां निरूपणासहत्वादित्याह –
अलात इति ।
यदा खल्वलातं स्पन्दमानमवतिष्ठते तदा तस्मिन्नन्यतो देशान्तरादागत्याऽऽभासा भवन्तीति न शक्यं वक्तुमृजुवक्राद्याभासानां देशान्तरादागमनस्यानवगमात्। यदा तदेवालातं निःस्पन्दनं स्पन्दनवर्जितं वर्तते तदा ततोऽन्यत्राऽऽभासा भवन्तीत्यपि न युक्तं वक्तुमनुपलम्भाविशेषात्। न चाऽऽभासास्तस्मिन्नेवालाते लीयन्ते, तदनुपादानत्वात्। यदि हि स्पन्दनं निमित्तमलातमुपादानं तदा निमित्ताभावमात्रान्नैमित्तिकाभावादर्शनादृजुवक्राद्याकाराः स्पन्दनाभावेऽप्यलाते भवेयुरित्यर्थः।
इतश्च दृष्टान्ते दृष्टानामाभासानां मिथ्यात्वमेष्टव्यमित्याह –
किं चेति ।
हेत्वन्तरमेव स्पष्टयन् पूर्वार्धाक्षराणि व्याचष्टे –
तस्मिन्नेवेति ।
आभासानां देशान्तरादागमनस्यानुपलम्भो हेतुः कर्तव्यः।
अनुपलब्धिमेव हेतूकृत्य तृतीयपादार्थमाह –
न चेति ।
चतुर्थपादार्थमाह –
न च निस्पन्दमिति ॥४९॥