माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः ।
विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ ५० ॥
किं च, न निर्गता अलातात् ते आभासाः गृहादिव, द्रव्यत्वाभावयोगतः, द्रव्यस्य भावो द्रव्यत्वम् , तदभावः द्रव्यत्वाभावः, द्रव्यत्वाभावयोगतः द्रव्यत्वाभावयुक्तेः वस्तुत्वाभावादित्यर्थः । वस्तुनो हि प्रवेशादि सम्भवति, नावस्तुनः । विज्ञानेऽपि जात्याद्याभासाः तथैव स्युः, आभासस्य अविशेषतः तुल्यत्वात् ॥

ॠजुवक्राद्याभासानां दृष्टान्ते निर्गमनप्रवेशयोरसम्भवं साधयति –

नेत्यादिना ।

दृष्टान्तनिविष्टाभासवद्दार्ष्टान्तिकेऽपि जन्माद्याभासा मिथ्यैव भवेयुरित्याह –

विज्ञानेऽपीति ।

ॠजुवक्राद्याकारेषु जन्माद्याकारेषु चाऽऽभासत्वस्य तुल्यत्वादिति हेतुमाह –

आभासस्येति ।

इतश्च दृष्टान्ते मिथ्यात्वमाभासानामेष्टव्यमित्याह –

किं चेति ।

तदेव पूर्वार्धयोजनया विशदयति –

नेति ।

ॠजुवक्राद्याभासानां वस्तुतोऽभावेऽपि किमिति प्रवेशाद्यसिद्धिरित्याशङ्क्याऽऽह –

वस्तुनो हीति ।

द्वितीयार्धं योजयन् दार्ष्टान्तिकमाचष्टे –

विज्ञानेऽपीति ॥५०॥