माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः ।
कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ५२ ॥
कथं तुल्यत्वमित्याह — अलातेन समानं सर्वं विज्ञानस्य ; सदा अचलत्वं तु विज्ञानस्य विशेषः । जात्याद्याभासा विज्ञाने अचले किङ्कृता इत्याह — कार्यकारणताभावात् जन्यजनकत्वानुपपत्तेरभावरूपत्वात् अचिन्त्याः ते यतः सदैव । यथा असत्सु ऋज्वाद्याभासेषु ऋज्वादिबुद्धिर्दृष्टा अलातमात्रे, तथा असत्स्वेव जात्यादिषु विज्ञानमात्रे जात्यादिबुद्धिर्मृषैवेति समुदायार्थः ॥

तुल्यत्वं सार्धेनोत्तरश्लोकेन साधयति –

कथमित्यादिना ।

न हि तस्मिन्विज्ञाने यथा कथञ्चिच्चलनवति ततोऽन्यस्मात्कस्माच्चिदागत्य जन्माद्याभासास्तत्र भवितुमर्हन्ति तथा प्रथाऽभावात्। न च तस्माद्विज्ञानादचलतयाऽवस्थितादन्यत्राऽऽभासा भवितुमुत्सहन्ते प्रतीत्यभावस्य तुल्यत्वात् नापि तदेव विज्ञानं प्रविशन्ति तस्य केवलस्य तदुपादानत्वानुपगमात्। न च ते विज्ञाने प्रवेष्टुं समर्थास्ततो निर्गन्तुं वा पारयन्ति, तेषामवस्तुत्वादित्यर्थः।

कथं तर्हि विज्ञाने प्रथा तेषामित्याशङ्क्य मृषैवेत्याह –

कार्येति ।

आभासानां विज्ञानस्य च कार्यकारणताया दुर्वचत्वादाभासाः सर्वदैव निरूपयितुमशक्यत्वान्मायामयाः सन्तो मिथ्यैव भवन्तीत्यर्थः।

सार्धश्लोकतात्पर्यमाह –

अलातेनेति ।

तर्हि सक्रियत्वमपि विज्ञानस्य प्रसज्येतेत्याशङ्क्याऽऽह –

सदेति ।

यदि विज्ञानमचलमभीष्टं तर्हि तत्र जात्याद्याभासा हेत्वभावान्न स्युरित्याशङ्क्यान्तिमार्धेन परिहरति –

जात्याद्याभास। इत्यादिना ।

यतः सदैवाचिन्त्या अतो मृषैवेति शेषः।

संक्षेपतस्तात्पर्यमाह –

यथेत्यादिना ॥५१– ५२॥