यदुक्तं कार्यकारणताऽभावादिति तदिदानीमुपपादयितुमुपक्रमते –
द्रव्यमिति ।
अवयवद्रव्यमवयविद्रव्यस्योपादानम्। अवयवगुणाश्चावयविगुणेषु समानजातीयेष्वसमवायिनो दृष्टाः। न चैवमात्मनो द्रव्यत्वं येन समवायित्वम्। न च तद्रूपाणां क्वचिदसमवायित्वं गुणगुणिभावस्यान्यत्वस्य तस्मिन् दुर्वचनत्वादित्यर्थः।
श्लोकाक्षराणि योजयति –
अजमित्यादिना ।
अवयवावयविविभागविरहित्वमजत्वम्। एकत्वं गुणगुणिभावशून्यत्वम्। तत्रेत्यात्मतत्त्वं परामृश्यते।
तत्र कार्यकारणभावं दूषयितुं सामान्यन्यायमाह –
तेषामिति ।
अद्रव्यस्यापि रूपादेस्तन्त्वादिद्वारा पटशौक्ल्यादौ कारणत्वं दृष्टमित्यतो विशिनष्टि –
स्वतन्त्रमिति ।
अस्तु तर्हि द्रव्यत्वेनान्यत्वेन चाऽऽत्मनि कार्यकारणत्वं नेत्याह –
न चेति ।
नहि तत्र गुणवत्त्वेन द्रव्यत्वं निर्गुणत्वात्, नापि समवायित्वेन तथात्वमन्योन्याश्रयत्वप्रसङ्गात्। न च तत्र कुतश्चिदन्यत्वं सर्वस्य सन्मात्रत्वेनैकरूपत्वप्रतिभानात्।
अतो न तत्र कारणत्वं कार्यत्वं वा प्रतिपत्तुं शक्यमिति फलितमाह –
अत इति ॥५३॥