संवृत्या जायते सर्वमित्युक्तं तदिदानीं प्रपञ्चयति –
धर्मा इति ।
तत्राऽऽद्यं पादं विभजते –
येऽपीति ।
प्रसिद्धावद्योतकत्वमितिशब्दस्य दर्शयति –
त इत्येवंप्रकारा इति ।
एवंप्रकारत्वमेव स्फोरयति –
यथोक्तेति ।
अनन्तरप्रकृता संवृतिरितिशब्देनोक्ता। तथा च संवृत्यैव ते धर्मा जायन्ते न तु तेषां तत्त्वतो जन्मास्तीत्यर्थः।
न ते तत्त्वत इत्युक्तं प्रपञ्चयति –
परमार्थत इति ।
संवृत्याऽपि जन्म पारमार्थिकमेवेत्याशङ्क्य तृतीयपादं योजयति –
यत्पुनरिति ।
प्रत्येतव्यं जन्मेति शेषः।
चतुर्थपादार्थमाकाङ्क्षाद्वारा स्फोरयति –
मायेत्यादिना ॥५८॥