माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा ।
यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६० ॥
परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविज्ञप्तिमात्रसत्ताकेषु शाश्वतः अशाश्वतः इति वा न अभिधा, नाभिधानं प्रवर्तत इत्यर्थः । यत्र येषु वर्ण्यन्ते यैरर्थाः, ते वर्णाः शब्दा न वर्तन्ते अभिधातुं प्रकाशयितुं न प्रवर्तन्त इत्यर्थः । इदमेवमिति विवेकः विविक्तता तत्र नित्योऽनित्य इति नोच्यते, ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इति श्रुतेः ॥

यदुक्तं सद्भावेन ह्यजं सर्वमिति तत् प्रपञ्चयति –

नाजेष्विति ।

आत्मसु नित्यानित्यकथा नावतरतीत्यत्र हेतुमाह –

यत्रेति ।

श्लोकस्य पूर्वार्धं व्याचष्टे –

परमार्थतस्त्विति ।

द्वितीयार्धं व्याकरोति –

यत्रेत्यादिना ।

तत्रेति प्रकृतेषु धर्मेष्विति यावत्।

आत्मसु नित्यानित्यकथाऽभावे शब्दागोचरत्वं हेतुस्तत्र प्रमाणमाह –

यत इति ॥६०॥