माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
स्वप्नदृक्प्रचरन्स्वप्ने दिक्षु वै दशसु स्थितान् ।
अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६३ ॥
इतश्च वाग्गोचरस्याभावो द्वैतस्य — स्वप्नान्पश्यतीति स्वप्नदृक् प्रचरन् पर्यटन्स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान् वर्तमानान् जीवान्प्राणिनः अण्डजान्स्वेदजान्वा यान् सदा पश्यतीति ॥

वाचो गोचरीभूतस्य द्वैतस्यासत्त्वे हेत्वन्तरमाचक्षाणो दृष्टान्तमाचष्टे –

स्वप्नदृगिति ।

यान् पश्यति ते न विद्यन्ते पृथगित्युत्तरत्र सम्बन्धः।

श्लोकस्य तात्पर्यमाह –

इतश्चेति ।

इतःशब्दार्थमेव स्फुटयन्नक्षराणि व्याचष्टे –

स्वप्नानिति ।

न ते विद्यन्त इति पूर्ववदन्वयः।

स्वप्नदृशो विषयभूतानां भेदानां तत्र दृश्यमानत्वेऽपि द्वैतभेदमिथ्यात्वे किमायातमिति पृच्छति –

यदीति ।

उत्तरश्लोकेनोत्तरमाह –

उच्यत इति ॥६३॥