माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४ ॥
यद्येवम् , ततः किम् ? उच्यते — स्वप्नदृशश्चित्तं स्वप्नदृक्चित्तम् , तेन दृश्याः ते जीवाः ; ततः तस्मात् स्वप्नदृक्चित्तात् पृथक् न विद्यन्ते न सन्तीत्यर्थः । चित्तमेव ह्यनेकजीवादिभेदाकारेण विकल्प्यते । तथा तदपि स्वप्नदृक्चित्तमिदं तद्दृश्यमेव, तेन स्वप्नदृशा दृश्यं तद्दृश्यम् । अतः स्वप्नदृग्व्यतिरेकेण चित्तं नाम नास्तीत्यर्थः ॥

श्लोकाक्षराणि योजयन् कर्मधारयं व्यावर्तयति –

स्वप्नेति ।

जीवादिभेदानां स्वप्ने दृश्यमानानामुक्तानां चित्तात्पृथगसत्त्वं साधयति –

चित्तमेवेति ।

तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतम्, नेत्याह –

तथेति ।

तच्छब्दस्य चित्तविषयत्वं व्यावर्तयति –

तेनेति ।

स्वप्नावस्थस्य चित्तस्य स्वप्नदृग्विषयत्वे फलितमाह –

अत इति ॥६४॥