दृश्यदर्शनव्यतिरेकग्राहकप्रमाणप्रतिहतम् हेतुद्वयमित्याशङ्क्याऽऽह –
उभे हीति ।
दृश्यदर्शने परस्परापेक्षसिद्धिके। दृश्ये सिद्धे तदवच्छिन्नं दर्शनं सिध्यति, तस्य च सिद्धौ तदवच्छिन्नं दृश्यं सिध्यतीत्यन्योन्याश्रयान्न दृश्यं दर्शनं वा सिध्यतीत्यतो विभागावगाहिप्रमाणाभावान्न तद्बाधो हेतुद्वयस्येत्यर्थः। किं च सम्भावनायां प्रमाणप्रवृत्तिर्वक्तव्या। न च दृश्यदर्शनयोरन्यतरस्यापि नैरपेक्ष्येण सम्भावना भवत्यन्योन्याश्रयदोषात्।
तथा च परस्परपुरस्कारेण सिध्यदुभयं कल्पितमेव स्यादिति मत्वाऽऽह –
किं तदिति ।
तद् दृश्यं दर्शनं वा किमस्तीति पृष्टे विवेकिना नास्तीत्येवोच्यते प्रागुक्तदोषादित्यर्थः। किं च प्रामाणिकस्यैव प्रामाणिको भेदः सम्भवति।
न च दृश्यदर्शनयोः स्वरूपे प्रमाणमस्तीत्याह –
लक्षणेति ।
कथं तर्हि प्रमाणप्रमेयविभागो वादिभिर्गृह्यते? तच्चित्ततादोषेणेत्याह –
तन्मतेनेति ।
तत्र प्रथमं पादं विभजते –
जीवेति ।
ते जीवचित्ते इति सम्बन्धः।
अन्योन्यदृश्यत्वमितरेतरग्राह्यत्वं, तदेव स्पष्टयति –
जीवादीति ।
द्वितीयपादं व्याचष्टे –
तस्मादिति ।
तदेव स्फुटयति –
चित्तं वेति ।
किं तदस्तीति पृष्टे सति न किञ्चिदस्तीत्युच्यते विवेकिनेति योजना।
उक्तमेवार्थं दृष्टान्तेन विवृणोति –
न हीति ।
इहेति जागरितोक्तिः।
द्वितीयार्धं व्याचिख्यासुतया पृच्छति –
कथमिति ।
तदेवावतार्य व्याकरोति –
लक्षणेत्यादिना ।
यतस्ततो न तद्भेदस्य प्रामाणिकत्वमिति शेषः।
कथं तर्हि लौकिकानां परीक्षकाणां च प्रमाणप्रमेयविभागप्रवृत्तिरित्याशङ्क्य चतुर्थपादार्थमाह –
तन्मतेनेति ।
तदेव प्रपञ्चयति –
न हीति ।
घटे किं प्रमाणमित्युक्ते ज्ञानमित्यनुत्तरमतिप्रसङ्गात्, नापि घटज्ञानमन्योन्याश्रयप्रसङ्गादतो न घटतज्ज्ञानयोर्मानमेयभावः सम्भवतीत्यर्थः॥६७॥