निर्विषयत्वेन चित्तस्यासङ्गत्वं सङ्गीतम्; तदसङ्गतम्; शास्त्रादेर्विषयस्य सत्त्वादित्याशङ्क्याऽऽह –
योऽस्तीति ।
ननु परमार्थतो वैशेषिकाः षट् पदार्थान् द्रव्यादिसमवायान्तानातिष्ठन्ते, तथा च चित्तस्य कथमसङ्गत्वम्, तत्राऽऽह –
परेति ।
वैशेषिकपारिभाषिकव्यवहारानुरोधेन पदर्थो यो द्रव्यादिः समवायान्तः स्यान्न स परमार्थतोऽस्ति, किं तु संवृत्या प्रतिभाति, तस्मादविरुद्धमसङ्गत्वमित्यर्थः।
व्यावर्त्यं चोद्यमुत्थापयति –
नन्विति ।
तत्र यस्मादिति सामान्येनोक्तं हेतुं विशेषतो व्यनक्ति –
शास्तेति ।
आदिशब्देन प्रमाता प्रमाणं प्रमेयमित्यादि गृह्यते।
असङ्गत्वाक्षेपं परिहरति –
नैष दोष इति ।
तत्र निर्विषयत्वहेतुं प्रश्नपूर्वकं पूर्वार्धयोजनया साधयति –
कस्मादित्यादिना ।
परमार्थतो द्वैतस्यासत्त्वे वाक्योपक्रममनुगुणमादर्शयति –
ज्ञात इति ।
द्वितीयार्धं योजयति –
यश्चेति ।
न हि द्रव्यस्य लक्षणं गुणादिपञ्चकस्य च ततो व्यावर्तकप्रातिस्विकलक्षणप्रतिपत्तिमन्तरेण प्रकल्पते। तथा च तल्लक्षणतस्तत्प्रतिपत्तौ तदितरप्रतिपत्तिः, तत्प्रतिपत्तौ च तल्लक्षणस्तद्व्यावृत्ततत्तत्प्रतिपत्तिरिति परस्पराश्रयान्न किञ्चिदपि वस्तुतः सिध्येदित्यर्थः।
वस्तुतो निर्विषयस्यैव सिद्धत्वादसङ्गत्वं चित्तस्य प्रागुक्तं सङ्गतमेवेत्युपसंहरति –
तेनेति ॥७३॥