शास्त्रादिभेदकल्पनायाः संवृतिसिद्धत्वे तदधीनाऽऽत्मन्यजत्वकल्पनाऽपि संवृतिसिद्धैव स्यादित्याशङ्क्याङ्गीकरोति –
अज इति ।
किल्पितमात्मन्यजत्वमित्यत्र हेतुमाह –
परतन्त्रेति ।
परिणामवादप्रसिद्धजन्मना भ्रान्त्यैवाऽऽत्मा जायते, जन्मनश्च विभ्रमत्वे तन्निषेधस्याजत्वस्यापि तथात्वं युक्तमित्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामाह –
नन्विति ।
शास्त्रादिभेदस्य कल्पितत्वे तत्प्रयुक्तमात्मन्यजत्वमपि कल्पितं स्यादित्यर्थः।
किमजोऽयमात्मेति व्यवहारस्य कल्पितत्वं किं वा तदुपलक्षितस्य रूपस्येति विकल्प्याऽद्यमङ्गीकरोति –
सत्यमिति ।
अजोऽयमित्यभिधानस्य संवृतिप्रयुक्तत्वात् तद् व्यवहारस्य कल्पितत्वमिष्टमित्यर्थः।
कैवल्यावस्थायामजोऽयमित्यभिधानाभावमभ्युपेत्य व्यावर्त्यं दर्शयति –
परमार्थेनेति ।
आत्मन्यजत्वव्यवहारस्य कल्पितत्वे द्वितीयार्धव्याख्यानेन हेतुमाह –
यस्मादिति ।
परेषां परिणामवादिनां शास्त्रे या परिणामप्रसिद्धिस्तामपेक्ष्य तन्निषेधेन योऽज इत्यात्मोक्तः स संवृत्यैव यतो जायतेऽतश्च प्रतियोगिनो जन्मनः संवृतिसिद्धत्वात् तन्निषेधरूपमजत्वमपि तादृगेवेत्यर्थः। अजत्वादिव्यवहारोपलक्षितस्वरूपस्याकल्पितत्वम्। तस्य कल्पनाधिष्ठानत्वात्। न च कल्पितस्य शास्त्रादेरकल्पिते न प्रमितिहेतुत्वं प्रतिबिम्बादौ बिम्बादिप्रमितिहेतुत्वस्य सम्प्रतिपन्नत्वादिति द्रष्टव्यम्॥७४॥