माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते ।
द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ७५ ॥
यस्मादसद्विषयः, तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम् । अभिनिवेशः आग्रहमात्रम् । द्वयं तत्र न विद्यते मिथ्याभिनिवेशमात्रं च जन्मनः कारणं यस्मात् , तस्मात् द्वयाभावं बुद्ध्वा निर्निमित्तः निवृत्तमिथ्याद्वयाभिनिवेशः यः, सः न जायते ॥

ननु ज्ञानस्य कल्पितशास्त्रादिजन्यत्वे मिथ्यात्वान्नापुनरावृत्तिफलसाधनत्वम्, तत्राऽऽह –

अभूतेति ।

यदि द्वितीयः संसारः सत्यः स्यात् तदा तन्निवृत्त्यर्थं साधनमपि वस्तुभूतमभिधीयते, मिथ्याभिनिवेशमात्रस्य तु मिथ्योपायजन्येनापि ज्ञानेन वस्तुनिष्ठेन निवृत्तिः सिध्यतीति श्लोकार्थं कथयति –

यस्मादित्यादिना ॥७५॥