तदा न जायते चित्तमिति कालपरिच्छेदप्रतीतेरागन्तुकत्वमाशङ्क्य परिहरति –
अनिमित्तस्येति ।
चित्तस्य हि निमित्तवर्जितस्य नित्यसिद्धस्य या सर्वदाऽनुत्पत्तिः सा निर्विशेषाऽद्वितीया चेत्यत्र हेतुमाह –
अजातस्येति ।
सर्वस्य द्वैतस्य चित्तदृश्यत्वेन मिथ्यात्वान्नित्यसिद्धस्य परिपूर्णस्य चित्ताख्यस्य स्फुरणस्य जन्मायोगात् तदनुत्पत्तिरुक्तलक्षणा युक्तेत्यर्थः।
उक्तमनूद्याऽऽकाङ्क्षापूर्वकं श्लोकमवतार्य व्याकरोति –
हेत्वभाव इत्यादिना ।
यथा रूप्यकल्पनाकालेऽपि शुक्तेररूप्यत्वं स्वाभाविकं तथा जन्मकल्पनाकालेऽपि संविदो निर्विशेषाद्वितीयब्रह्मता स्वाभाविकी, जन्मभ्रमनिवृत्त्यपेक्षया तु तदा न जायत इत्युक्तमित्याह –
सर्वदेति ।
न केवलं मोक्षावस्थस्यैव चैतन्यस्याजत्वं, किं तु घटाद्युपरक्तस्यापित्यभिप्रेत्याऽऽह –
सर्वावस्थास्विति ।
सर्वस्यैव चित्तप्रतिबिम्बस्य बिम्बकल्पब्रह्मरूपत्वादिति हेतुमभिप्रेत्याऽऽह –
अद्वया चेति ।
तृतीयपादार्थम् कथयति –
पूर्वमपीति ।
तत्र हेतुमाह –
यस्मादिति ।
तस्माद्रज्जुसर्पवद् द्वैतस्य जन्मनश्च दृश्यत्वाद् वस्तुतोऽसत्त्वादिति यावत्॥७७॥