‘द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायत’(मा. का. ४ । ७५) इत्युक्तं तदिदानीं प्रपञ्चयति –
बुद्ध्वेति ।
द्वैताभावोपलक्षितां सत्तामनाद्यनन्तां परमार्थभूतां प्रतिपद्य देवादियोनिप्राप्तौ धर्मादिहेतुमसाङ्कर्येणाननुतिष्ठन् यदा विद्वानवतिष्ठते तदा सर्वसंसारकारणरहितं पदमश्नुवानो न पुनः शरीरं गृह्णातीत्यर्थः।
श्लोकं व्याचष्टे –
यथोक्तेनेति ।
दृश्यत्वादिना हेतुना द्वैतस्य रज्जुसर्पादिवदेव कल्पितत्वं यथोक्तो न्यायस्तेन चैतन्यस्य जन्मनि यद् द्वयं निमित्तं तस्याभावतामभावोपलक्षितां सत्तां निमित्ताभावादेवानाद्यनन्तां तस्मादेव सत्यां बुद्ध्वेति योजना। पृथगिति देवतादिप्रकृष्टजन्मप्राप्तये धर्मं मनुष्यत्वप्राप्तये धर्माधर्मौ तिर्यगाद्यधमयोनिप्राप्तये चाधर्ममसाङ्कर्येणाननुतिष्ठन्निति यावत्।
प्रकृतस्य ज्ञानवतो धर्माद्यनुष्ठानायोगे हेतुं सूचयति –
त्यक्तेति ।
कार्यभूतसर्वानर्थराहित्यमुक्त्वा पुनरभयमित्यस्यार्थमाह –
अविद्येति ॥७८॥