माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते ।
वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ७९ ॥
यस्मात् अभूताभिनिवेशात् असति द्वये द्वयास्तित्वनिश्चयः अभूताभिनिवेशः, तस्मात् अविद्याव्यामोहरूपाद्धि सदृशे तदनुरूपे तत् चित्तं प्रवर्तते । तस्य द्वयस्य वस्तुनः अभावं यदा बुद्धवान् , तदा तस्मात् निःसङ्गं निरपेक्षं सत् विनिवर्तते अभूताभिनिवेशविषयात् ॥

यथोक्तपदप्राप्तिः सदाऽस्तीत्याशङ्क्याऽऽह –

अभूतेति ।

व्याभिचारित्वादिहेतुभिरद्वयात्मदर्शनेन वा सध्यसाधानात्मनो द्वैतस्य वस्तुनोऽभावं यदा पुमान् बुद्धवांस्तदा वस्त्वभावं पुरुषो बुद्‌ध्वैव निःसङ्गं चित्तं यथा पुनर्न प्रवर्तते तथा तन्निवृत्तिमनु निवृतो भवतीत्यर्थः।

अक्षराणि विभजते –

यस्मादित्यादिना ।

यस्मादभूताभिनिवेशात् तदनुरूपे चित्तं प्रवर्तते तस्मान्निःसङ्गं निवर्तत इति सम्बन्धः।

अभूताभिनिवेशमेव विशदयति –

असतीति ।

अभिनिवेशस्याविद्याव्यामोहरूपत्वमन्वयव्यतिरेकसिद्धमिति वक्तुं हीत्युक्तम्। तदनुरूप इत्यत्र तच्छब्देनाभिनिवेशो गृह्यते ।

तस्येति ।

अभिनिवेशविषयस्येत्यर्थः॥७९॥