माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् ।
सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१ ॥
पुनरपि कीदृशश्चासौ बुद्धानां विषय इत्याह — स्वयमेव तत् प्रभातं भवति न आदित्याद्यपेक्षम् ; स्वयं ज्योतिःस्वभावमित्यर्थः । सकृद्विभातः सदैव विभात इत्येतत् । एषः एवंलक्षणः आत्माख्यो धर्मः धातुस्वभावतः वस्तुस्वभावत इत्यर्थः ॥

यो मोक्षो विदुषां विषयो दर्शितस्तमेव पुनर्विशिनष्टि –

अजमिति ।

स्वयंप्रभातत्वे हेतुमाह –

सकृदिति ।

कल्पितस्य सर्वस्य धारणाद्धर्मो, नासौ कथमपि परतन्त्रो भवितुमर्हत्यनवस्थानादतः स्वयंज्योतिरित्याह –

धर्म इति ।

किं च धीयते निधीयते सर्वं निक्षिप्यते सुषुप्तादावस्मिन्निति धातुरात्मोच्यते।

तथा च सर्वस्य ज्ञानसाधनस्योपसंहारेऽपि सुहुप्तादौ साक्षितयाऽऽत्मनः सिद्धेः स्वयंज्योतिष्ट्‌वमेष्टव्यमित्याह –

धातुरिति ।

किं चाऽऽत्मत्वादेवाऽऽत्मनः स्वयंज्योतिष्ट्‌वमन्यथा घटवदनात्मत्वप्रसङ्गादित्याह –

स्वभावत इति ।

आकाङ्‌क्षापूर्वकं श्लोकमवतार्य तदक्षराणि योजयति –

पुनरपीत्यादिना ।

धातुस्वभावत इत्येकं पदं गृहीत्वा व्याचष्टे –

वस्त्विति ।

विवक्षितार्थस्तु पूर्वस्मान्नातिरिच्यते॥८१॥