आत्मा चेदुक्तलक्षणो विवक्षितस्तर्हि किमित्यसौ श्रुत्याचार्योपदिष्टस्तथैव सर्वैर्न गृह्यते, तत्राऽऽह –
सुखमिति ।
मिथ्याभिनिवेशादात्मतत्त्वस्वरूपसुखं सदैवाऽऽच्छाद्यते, तस्मादेव वस्तुतोऽसदपि दुःखं सर्वदा प्रकटीक्रियते, तेनासौ भगवानात्मा श्रुत्याचार्योपदिष्टोऽपि न विस्पष्टो भवतीत्यर्थः।
श्लोकव्यावर्त्यां शङ्कां दर्शयति –
एवमिति ।
स्वयंज्योतिष्ट्वादिप्रयुक्तप्रकारेणेति यावत्।
तत्र श्लोकमवतार्य व्याकरोति –
उच्यत इत्यादिना ।
द्वैते गृह्यमाणेऽपि कथमात्मस्वरूपस्य सुखस्यानायासेनाऽऽच्छाद्यमानत्वम्, तत्राऽऽह –
द्वयेति ।
इतश्चाऽऽत्मतत्त्वं यथावन्न प्रतिभातीत्याह –
दुःखं चेति ।
यथावदात्मप्रथाऽभावे हेतुमाह –
परमार्थेति ।
देवो याथातथ्येन न भातीति शेषः।
सुखस्य विद्यमानस्याऽऽवरणमविद्यमानस्य दुःखस्य विवरणमिति स्थिते फलितमाह –
अत इति ।
श्रुत्याचार्योपदेशस्य तात्पर्यशून्यत्वं वारयति –
बहुश इति ।
आत्मनि प्रवचनस्य परिज्ञानस्य दुर्लभत्वे प्रमाणमाह –
आश्चर्य इति ॥८२॥