परीक्षकाभिनेवेशानामप्यात्मावरणत्वे सति लौकिकपुरुषाभिनिवेशानां तदावरणत्वं किमु वक्तव्यमिति साधयति –
अस्तीत्यादिना ।
श्लोकस्य तात्पर्यमाह –
अस्तीति ।
प्रमाता देहादिव्यतिरिक्तोऽस्तीत्यादौ वैशेषिकादिपक्षः। देहादिव्यतिरिक्तोऽपि नासौ बुद्धेर्व्यतिरिच्यते, क्षणिकस्य विज्ञानस्यैवाऽऽत्मत्वादिति द्वितीयो विज्ञानवादिपक्षः। तृतीयो दिगम्बरपक्षः। चतुर्थे तु शून्यवादिपक्षे शून्यस्याऽऽत्यन्तिकत्वद्योतनार्था वीप्सा।
द्वितीयार्धं विभजते –
तत्रेत्यादिना ।
अनित्येभ्यो घटादिभ्यः सुखाद्याकारपरिणामितया वैलक्षण्यादस्तिभावो योऽयं प्रमातोक्तः स चलः सविशेषः सन् परिणामीत्यर्थः।
देहाद्यतिरिक्तोऽपि प्रमाता बुद्ध्यतिरिक्तो नास्तीति यो नास्तिभावः स स्थिरो निर्विशेषत्वात्तदभावस्येत्याह –
नास्तिभाव इति ।
प्रकारचतुष्टस्यास्तित्वस्य नास्तित्वस्यास्तिनास्तित्वस्य नास्तिनास्तित्वस्य चेति यावत्।
बालिशत्वे सिद्धे फलितं न्यायमुपसंहरति –
किम्विति ॥८३॥