माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदावृतः ।
भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४ ॥
कीदृक्पुनः परमार्थतत्त्वम् , यदवबोधादबालिशः पण्डितो भवतीत्याह — कोट्यः प्रावादुकशास्त्रनिर्णयान्ताः एताः उक्ता अस्ति नास्तीत्याद्याः चतस्रः, यासां कोटीनां ग्रहैः ग्रहणैः उपलब्धिनिश्चयैः सदा सर्वदा आवृतः आच्छादितः तेषामेव प्रावादुकानां यः, स भगवान् आभिः अस्ति नास्तीत्यादिकोटिभिः चतसृभिरपि अस्पृष्टः अस्त्यादिविकल्पनावर्जित इत्येतत् । येन मुनिना दृष्टो ज्ञातः वेदान्तेष्वौपनिषदः पुरुषः, स सर्वदृक् सर्वज्ञः ; परमार्थपण्डित इत्यर्थः ॥

आत्मनो यदावरणमुक्तं तदुपसंहरति –

कोट्य इति ।

यासां कोटीनां परीक्षकपरिकल्पितनिर्णयनिरूपणीयानां ग्रहैरभिनिवेशविशेषैरात्मा सदा समावृतस्ताः खल्वेताश्चतस्रः कोट्यः सन्ति। तथा चाऽऽत्मनो न यथावत्प्रथनमित्यर्थः।

यदि सदाऽऽत्मा समावृतो न तर्हि तस्य ज्ञानम्, ज्ञाने वा नास्ति नैराकाङ्‌क्ष्यं ज्ञातव्यान्तरपरिशेषादित्याशङ्क्याऽऽह –

भगवानिति ।

आत्मा हि वस्तुतोऽस्तीत्यादिकल्पनारहितो येनोपनिषत्प्रवणेन प्रतिपन्नः स सर्वज्ञो ज्ञातव्यान्तरमपश्यन् परमार्थपण्डितो निराकाङ्‌क्षो भवतीत्यर्थः।

श्लोकनिरस्यामाकाङ्‌क्षां दर्शयति –

कीदृगिति ।

किमिति परमार्थतत्त्वं जिज्ञास्यते? तज्ज्ञानात्पाण्डित्यसिद्ध्यर्थमित्याह –

यदवबोधादिति ।

तत्र श्लोकमवतार्य व्याकरोति –

आहेत्यादिना ।

तेषामेव प्रावादुकानामुपलब्धिनिश्चयैरिति सम्बन्धः। यो भगवानुक्तविशेषणः स येनेति योजना॥८४॥