आत्मनो यदावरणमुक्तं तदुपसंहरति –
कोट्य इति ।
यासां कोटीनां परीक्षकपरिकल्पितनिर्णयनिरूपणीयानां ग्रहैरभिनिवेशविशेषैरात्मा सदा समावृतस्ताः खल्वेताश्चतस्रः कोट्यः सन्ति। तथा चाऽऽत्मनो न यथावत्प्रथनमित्यर्थः।
यदि सदाऽऽत्मा समावृतो न तर्हि तस्य ज्ञानम्, ज्ञाने वा नास्ति नैराकाङ्क्ष्यं ज्ञातव्यान्तरपरिशेषादित्याशङ्क्याऽऽह –
भगवानिति ।
आत्मा हि वस्तुतोऽस्तीत्यादिकल्पनारहितो येनोपनिषत्प्रवणेन प्रतिपन्नः स सर्वज्ञो ज्ञातव्यान्तरमपश्यन् परमार्थपण्डितो निराकाङ्क्षो भवतीत्यर्थः।
श्लोकनिरस्यामाकाङ्क्षां दर्शयति –
कीदृगिति ।
किमिति परमार्थतत्त्वं जिज्ञास्यते? तज्ज्ञानात्पाण्डित्यसिद्ध्यर्थमित्याह –
यदवबोधादिति ।
तत्र श्लोकमवतार्य व्याकरोति –
आहेत्यादिना ।
तेषामेव प्रावादुकानामुपलब्धिनिश्चयैरिति सम्बन्धः। यो भगवानुक्तविशेषणः स येनेति योजना॥८४॥